बसंतागत:
माघान्ते आगच्छति फाल्गुन:। हिंदू पंचांगानुसारे फाल्गुन मास: वर्षस्य अंत: अपि च चैत्र मास: भवति वर्षारंभ:। परन्तु बसंत ऋतो: विस्तार माघ शुक्ल पक्षात चैत्र शुक्ल पक्ष पर्यंत परिगण्यते. तदर्थे वर्षांतश्च वर्षारम्भ: उभौ भवतौ बसंत ऋतवे. *** यदा पौष-माघ द्वयो मासौ अति शैत्यम् हेतवे जनजीवनम् अत्यंत शिथिलम् जायते तदा प्रकृति: उपहारस्वरुप बसंतरूपेण आगत्य जीवने ऊर्जा संचारम् करोति. यदस्ति सूचक: शैत्यावसान: अपि च निदाघस्य आगमनम् असौ बसंत:। तर्हि एतस्मिन वयम् अनुभवाम: खंडित शैत्यम खंडित ग्रीष्मम्। सूर्योदय: भवति क्वचित पूर्वम् ।तदर्थे दिवावधि क्रमशः दीर्घकालिक जायते. *** बसंत: भवति कुसुमाकर:। भगवद्गीतायां भगवान् स्वतुलना कुसुमाकरेण अकरोत-" "मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकर:" नव द्रुम: पत्रेण-पल्लवेन सज्जते. प्राप्ते बसंत: वृक्षानाम शाखा: पत्रै: पुष्पै: फलै:च शोभन्ते. *** माघ शुक्ल पंचमी तिथौ विद्यार्थिन: सरस्वती पूजा आयोजनम् कुर्वन्ति. विद...