बसंतागत:

माघान्ते आगच्छति फाल्गुन:। हिंदू पंचांगानुसारे फाल्गुन मास: वर्षस्य अंत: अपि च चैत्र मास: भवति वर्षारंभ:। परन्तु बसंत ऋतो: विस्तार माघ शुक्ल पक्षात चैत्र शुक्ल पक्ष पर्यंत परिगण्यते. तदर्थे वर्षांतश्च वर्षारम्भ: उभौ भवतौ बसंत ऋतवे.
              ***
यदा पौष-माघ द्वयो मासौ अति शैत्यम् हेतवे जनजीवनम् अत्यंत शिथिलम् जायते तदा प्रकृति: उपहारस्वरुप बसंतरूपेण आगत्य जीवने ऊर्जा संचारम् करोति.
 यदस्ति सूचक: शैत्यावसान: अपि च निदाघस्य आगमनम् असौ बसंत:।
      तर्हि एतस्मिन वयम् अनुभवाम: खंडित शैत्यम खंडित ग्रीष्मम्। सूर्योदय: भवति क्वचित पूर्वम् ।तदर्थे दिवावधि क्रमशः दीर्घकालिक जायते.
      ***
बसंत: भवति कुसुमाकर:। 
भगवद्गीतायां भगवान् स्वतुलना कुसुमाकरेण अकरोत-"
"मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकर:"
नव द्रुम: पत्रेण-पल्लवेन सज्जते. 
प्राप्ते बसंत: वृक्षानाम शाखा: पत्रै: पुष्पै: फलै:च शोभन्ते.
             ***
माघ शुक्ल पंचमी तिथौ विद्यार्थिन: सरस्वती पूजा आयोजनम् कुर्वन्ति. विद्यारंभे एषा तिथि: परम् शुभम् मन्यते. माता-पिता गुरूश्च अस्य तिथौ स्वबालक बालिकाया: कोमल हस्ते लेखनी-पट्टश्च दत्वा विद्यारंभ संस्कारयति.
***
साहित्ये बसंतस्य महत्व: सर्वविदित:। बसंत प्रदायक: कवे: रचनाधार:। संगीत शास्त्रे अपि च 'राग बसंत' नाम्ना एकम् विशिष्ट राग: विद्यते.
बसंत ऋतु कामदेवस्य जनक: अस्ति। अयम् संजायते नव प्रेमी-प्रमिकायां नवोल्लास:।
इत्यलम्
~राजीव रंजन प्रभाकर:
  २३.०१.२०२६.

Comments

Popular posts from this blog

साधन चतुष्टय

भावग्राही जनार्दनः

सर्वधर्मान्परित्यज्य.