लाल बहादुर शास्त्री महाभागस्य विराट व्यक्तित्वमधिकृत्य
अद्य अक्तूबर-मासस्य द्वितीया तिथिः अस्ति। अद्यैव भारतवर्षस्य यशस्विनः महापुरुषस्य लालबहादुरशास्त्री-महाभागस्य जन्म अभवत्। बाल्यकाले तस्य माता-पिता-परिजनाश्च तं ‘नन्हें’ इति नाम्ना आह्वयन्ति स्म। सः भारतस्य द्वितीयः प्रधानमन्त्री आसीत्। प्रधानमन्त्रीपदस्य अपेक्षया अपि तस्य सार्वजनिकजीवने शुचिता लोकनिष्ठा च अधिकं महत्त्वपूर्णे आस्ताम्। यदा १९६५ ख्रीष्टाब्दे पाकिस्तानदेशः भारतम् प्रति आक्रमणम् अकरोत्, तदा शास्त्रीमहाभागः प्रधानमन्त्री आसीत्। तस्य नीत्या नेतृत्वेन च पाकिस्तानस्य सेना पराजिता अभवत्, अपि च भारतस्य वीरसैनिकाः पाकिस्तानस्य क्षेत्रं लाहौरपर्यन्तं स्ववशे अकुर्वन्। पाकिस्तानदेशः ‘त्राहि-त्राहि’ इति अक्रन्दत् तथा सः ताशकन्द-सन्धिं कर्तुं विवशः अभवत्। अस्माकं देशे तत्समये अन्नाभावं दृष्ट्वा शास्त्रीजी देशस्य सैनिकानां कृषकाणां च मनोबलं वर्धयितुं ‘जय जवान–जय किसान’ इति ध्येयवाक्यम् अददात्। तस्य पारिवारिकं सार्वजनिकं जीवनं च अपि सरलम् आसीत्। एकदा कस्मिंश्चित् सम्मेलने भारतस्य प्रतिनिधिरूपेण नेहरू-महाभागेन शास्त्रीमहाभागः प्रेषितः। किन्तु तत्र गमनस्य विषये शास्त्रीमहाभागः किंचित् असमञ...