राजा अम्बरीषस्य कथा

पुराणकाले एकः विष्णुभक्तः राजा आसीत्। तस्य नाम आसीत् अम्बरीषः।
एकदा राजा सपत्नीकः वर्षपर्यन्तम् एकादशीव्रतं कर्तुं सङ्कल्पम् अकरोत्।
एकादशीव्रतसमाप्त्यनन्तरं द्वादशी तिथौ पारणकालः आसन्न आसीत्। तस्मिन्नेव समये दुर्वासा मुनिः शिष्यैः सह आगतः।
मुनिः राजानम् अब्रवीत्— “राजन्! अहं शिष्यैः सह कालिन्द्यां स्नानं कृत्वा आगच्छामि। तावत् प्रतीक्षां कुरु। वयं त्वया शिष्यैश्च सह भोजनं करिष्यामः।”
राजोवाच— “मुनीश्वर! तव आज्ञा मह्यं शिरोधार्या।”
राजा तदनन्तरं मुनिं प्रतीक्षन् आसीत्। यदा बहुकालानन्तरं मुनिः स्नानं कृत्वा न आगतः, तस्मिन्नेव काले द्वादश्याः तिथेः पारणमुहूर्तः उपस्थितोऽभवत्।
यदि पारणं तत्समये न करोति, तर्हि एकादशीव्रतस्य फलं नश्यति—इति विचिन्त्य राजा ब्राह्मणैः सह परामर्शम् अकरोत्। यदि सः पारणं न करोति, तर्हि व्रतस्य फलं नश्यति; यदि विना मुनेः आगमनं पारणं करोति, तर्हि मुनेरपमानो भवति—इति तस्य चिन्ता आसीत्।
ब्राह्मणाः राजानम् अवदन्— “भवान् शास्त्रे जलं पीत्वापि पारणं कर्तुं शक्नोति। यदा मुनिः प्रत्यागतः भवति, तदनन्तरं भवान् मुनेः सह भोजनं कर्तुं समीचीनम्।”
पण्डितगणस्य परामर्शेन राजा जलं पीत्वा पारणम् अकरोत्। क्षणमात्रानन्तरं दुर्वासा मुनिः प्रत्यागतः। मुनिना योगबलेन ज्ञातं यत् राजा मुनेः प्रतीक्षाम् उपेक्ष्य पारणम् अकरोत्।
क्रोधताम्राक्षो दुर्वासा अवदत्— “रे नृपाधम! त्वं मां विहाय पारणम् अकरोः! अहं तव धृष्टतायै अवश्यमेव दण्डं दास्यामि।”
इति वदित्वा मुनिना स्वजटामण्डलात् एकां जटाम् उत्पाट्य राजानं प्रति क्षिप्तवान्। तत्क्षणं सा जटा कृत्या नाम्नी राक्षसी उत्पन्ना। सा राक्षसी अम्बरीषं हन्तुं धावितवती, किन्तु राजा अविचलितभावेन द्वौ हस्तौ युगपद् बद्ध्वा भगवान् वासुदेवं स्मरन् यथास्थितिम् अतिष्ठत्।
तदैव एकः परमाश्चर्यजनकः घटना घटिता। सहसा भगवान् वासुदेवस्य सुदर्शनचक्रं प्रकटितम्। तत् चक्रं क्षणमेव कृत्यां राक्षसीं भस्मीभूताम् अकरोत्। कृत्यां राक्षसीं भस्मीभूतां कृत्वा सुदर्शनचक्रं दुर्वाससं प्रति हन्तुम् अधावत्।
दुर्वासा प्राणरक्षणाय ब्रह्मलोकं शिवलोकं च पर्यन्तं धावन् अगच्छत्, किन्तु सर्वत्र निराशः अभवत्।
अन्ते मुनिः प्राणरक्षार्थं विष्णुलोकं गत्वा भगवान् विष्णोः चरणयोः पतितः।
भगवान् उवाच— “मुनिवर! अहम् अपि तव प्राणरक्षां कर्तुं न शक्नोमि, यतोऽहम् अस्मि मम भक्तस्य वशे। अपि च भवान् मम भक्तं प्रति अपराधं कृतवान्। तर्हि मम भक्त एव तव अपराधं क्षन्तुं शक्नोति। तदर्थं तं प्रति गच्छ तथा स्वकृतापराधस्य क्षमां याचस्व।”
निदानं दुर्वासा अम्बरीषस्य चरणयोः गत्वा स्वमस्तकम् आधाय क्षमां याचितवान्। राजा झटिति स्वचरणौ पश्चात् कृत्वा मुनेः आश्वासनम् अकरोत्, अवदत् च— “मुनिवर! मां क्षमस्व। पारणकालम् आगतं दृष्ट्वा अहं जलेन मात्रं पारणं कृतवान्।”
सुदर्शनचक्रं इति पश्यन् शान्तोऽभवत्।
एषा कथा दर्शयति यत् ये भगवद्भक्ताः सन्ति, तान् प्रति अपराधं हरिरपि स्वयमेव क्षमा न करोति, अपितु भक्तेनैव तं क्षमापयति।
इत्यलम्।
राजीव रंजन प्रभाकर:

Comments

Popular posts from this blog

साधन चतुष्टय

जिन मुश्किलों में मुस्कुराना हो मना

रामचरितमानस में पर्यावरणतत्व का दिग्दर्शन