लाल बहादुर शास्त्री महाभागस्य विराट व्यक्तित्वमधिकृत्य

अद्य अक्तूबर-मासस्य द्वितीया तिथिः अस्ति। अद्यैव भारतवर्षस्य यशस्विनः महापुरुषस्य लालबहादुरशास्त्री-महाभागस्य जन्म अभवत्। बाल्यकाले तस्य माता-पिता-परिजनाश्च तं ‘नन्हें’ इति नाम्ना आह्वयन्ति स्म।
सः भारतस्य द्वितीयः प्रधानमन्त्री आसीत्। प्रधानमन्त्रीपदस्य अपेक्षया अपि तस्य सार्वजनिकजीवने शुचिता लोकनिष्ठा च अधिकं महत्त्वपूर्णे आस्ताम्।
यदा १९६५ ख्रीष्टाब्दे पाकिस्तानदेशः भारतम् प्रति आक्रमणम् अकरोत्, तदा शास्त्रीमहाभागः प्रधानमन्त्री आसीत्। तस्य नीत्या नेतृत्वेन च पाकिस्तानस्य सेना पराजिता अभवत्, अपि च भारतस्य वीरसैनिकाः पाकिस्तानस्य क्षेत्रं लाहौरपर्यन्तं स्ववशे अकुर्वन्।
पाकिस्तानदेशः ‘त्राहि-त्राहि’ इति अक्रन्दत् तथा सः ताशकन्द-सन्धिं कर्तुं विवशः अभवत्।
अस्माकं देशे तत्समये अन्नाभावं दृष्ट्वा शास्त्रीजी देशस्य सैनिकानां कृषकाणां च मनोबलं वर्धयितुं ‘जय जवान–जय किसान’ इति ध्येयवाक्यम् अददात्।
तस्य पारिवारिकं सार्वजनिकं जीवनं च अपि सरलम् आसीत्।
एकदा कस्मिंश्चित् सम्मेलने भारतस्य प्रतिनिधिरूपेण नेहरू-महाभागेन शास्त्रीमहाभागः प्रेषितः। किन्तु तत्र गमनस्य विषये शास्त्रीमहाभागः किंचित् असमञ्जसस्थितौ अभवत्। सः नेहरू-महाभागं प्रति गत्वा स्वस्य समस्यां निवेदितवान् यत् तस्य समीपे उष्णः कोट्-पैण्ट् नास्ति, अपि च तत्रत्यः जलवायुः अतिशीतः अस्ति; अतः अहं तत्रत्यं शीतं सोढुं न समर्थः अस्मि।
प्रधानमन्त्रिकार्यकाले एकदा शास्त्रीजी पंजाब-नेशनल-बैङ्कतः ५००० रूप्यकाणि ‘एम्बेसडर’ नामकं वाहनं क्रेतुं ऋणरूपेण प्राप्तवान्। किन्तु ऋणं प्राप्ते एव तस्य मृत्युः अभवत्। ततः तस्य ऋणस्य भुगतानं तस्य भार्या अकरोत्।
अद्यावधि शीर्षस्थपदं प्राप्तेषु जनैः शास्त्रीजीमहाभागस्य अस्मिता, शुचिता, सरलता, शासकीयदृढता च सार्वजनिकजीवने मानदण्डरूपेण ध्रुवतारासदृशाः स्मर्यन्ते।
~ राजीव रंजन प्रभाकर
०२.१०.२०२६

Comments

Popular posts from this blog

साधन चतुष्टय

जिन मुश्किलों में मुस्कुराना हो मना

रामचरितमानस में पर्यावरणतत्व का दिग्दर्शन