संस्कृत दिवसे किंचित मम भावोद्गार:
अद्य श्रावण मासस्य पूर्णिमा तिथि:। प्रायः सर्वे जना: इयम तिथिम् रक्षा बंधन पर्वरूपेण जानन्ति.
किंतु अस्येतर: इयम तिथि विद्वानस: संस्कृत दिवस रूपेण अपि प्रतिष्ठितवान.
तर्हि प्रत्येक सम्वत्सरे इयम तिथि: संस्कृत दिवसाय आरक्षित:।
सम्पूर्ण विश्वे संस्कृत भाषा तुल्य: न कोऽपि भाषा प्राचीनतमा विद्यते.
सर्वे भारतवासिन: कृते अयम गर्वविषयक तथ्य: यत् अस्या भाषाया: उद्गमस्त्रोत वेदा: वर्तते अपि च अस्य उद्गम स्थल: भारतस्य पुण्य भूमि.
सनातन धर्मस्य सम्पूर्ण वाड्मय संस्कृत भाषायाम् रचितं विद्यते।
वेदा: उपनिषद्श्च स्मृतिश्च मंत्रश्च संस्कृत भाषायाम् रचित कारणे यदि कोऽपि इयम भाषायै: सनातन धर्मधारिणी भाषा वदति इदम् न किंचित अतिशयोक्ति।
प्राचीन काले संस्कृत भाषैव लोक व्यवहारस्य भाषाऽपि आसीत।
गुप्त काले संस्कृत भाषा लोक व्यवहारस्य शासनव्यवहारस्यश्च भाषा अपि आसीत।
कालक्रमे अस्य प्रसार: लोकानाम् क्रमशः क्षीणताम् प्राप्त:।
वैज्ञानिक दृष्टया अपि च इयम भाषाया: प्रामाणिकता उपादेयता च अद्य निर्विवाद रूपेण प्रतिष्ठित:।
अधुना संगणक(computer) विषयै: कृत्रिम प्रज्ञा(Artificial Intelligence) विषयै: च संस्कृत भाषा प्रतिष्ठा सर्वस्वीकार्यता च एका अकाट्य तथ्य:।
इदम प्रसन्नता विषयवस्तु यत् अधुना इयम भाषा शासन समर्थन प्राप्य दिनानुदिन सम्वर्द्धनम् प्राप्नोति।
वर्धतु संस्कृतम् पुष्पितु संस्कृतम् जयतु संस्कृतम्
इति शुभम्
राजीव रंजन प्रभाकर:
संस्कृत दिवस
०९.०८.२०२५.
Comments