समयस्य महती प्रतिष्ठा
अहम् समयोऽस्मि. सर्वे कुर्वंति मम प्रतीक्षा किंतु अहमस्मि नैव कस्यचित् किंचित् कश्चित् वा कदाचित्। मम क्षमता अपरिमितो अपारश्च। अखिल ब्रह्माण्ड मम गर्भ: जात:। अहमैव एकमेव हेतु: जगत: प्रभव: प्रलयस्तथा। प्रकृत्या: अहम् सतत् सदैव प्रवाहमानम् अछेद्यम्: अशोष्यम् अक्लेद्यम्। तर्हि मम प्रतिष्ठा सर्वेषु कालेषु सार्वदेशिक सार्वभौमिकश्च वर्तते। अहम् सदैव सर्वगत: सर्वव्यापकश्च। अपि च गणनार्थे नरा: भजन्ति माम् भूत वर्तमान भविष्य रूपिणम्. सर्वे सन्ति मम नियंत्रणाधीन:। मया निरादरेण नर: पतन्ति नानाविध गर्तेषु. ये माम भजन्ति स्वकर्मणा ते अचिरेण भवन्ति स्वे स्वे कर्मणि सफल: । आलस्य-स्फूर्ति ममैव यमलौ पुत्र पुत्रीश्च. एक: प्रगति रोधक: अपर: प्रगतिकारिणीम्। मम कृपापात्र: प्राप्नोति यशम् धनम् च श्रियम्; मम विना न किंचित अवशिष्यति। निमिषेण अनन्तरम् मम वक्र दृष्टया राजा भवति रंक: एवं मम प्रसादात् श्रीहीन: जायते अधिपति:। अहम् साक्षात् कालरूप: भगवदरूपश्च. गीतायाम् श्रीभगवान् घोषित: यत् १. "कालोऽस्मि लोकक्षयकृत प्रवृद्ध:" २.“ य...