लोभ: हरति विवेकम्
एकः मर्कटः आसीत्। सः वृक्षस्य शाखायां वसति स्म। असौ शाखा एकस्य गृहस्वामिनः गृहाङ्गणं स्पृशति स्म। मर्कटः स्वभावेन अति उच्छृङ्खलः आसीत्। सः बहुधा वृक्षशाखाया सहाय्येन गृहाङ्गणं प्रविश्य गृहस्वामिनः भोजनभाण्डानि, पात्राणि, वस्त्राणि च छिन्नभिन्नानि कृत्वा भोज्यपदार्थान् सहितः पलायति स्म।
वानरस्य क्रियाकलापैः गृहपति अत्यन्तं दुःखितः कुपितश्च आसीत्। अन्ते गृहपतिः वानरं बन्धितुं एकां युक्तिम् अयोजयत्। सः हट्टं गत्वा एकं पात्रम् आनीतवान्, यस्य मुखं अत्यन्तं कुण्ठितम् आसीत्। गृहस्वामी तस्मिन् पात्रे बहून् चणकदानान् निक्षिप्य गृहाङ्गणे स्थापितवान्।
वानरः पात्रे स्वादिष्टान् चणकान् दृष्ट्वा लुब्धः अभवत्। यदा गृहस्वामी बहिः अगच्छत्, तदा मर्कटः सपदि आगत्य पात्रे हस्तं प्रावेशयत्। सः मुष्टिकायां चणकान् गृह्णाति स्म, किन्तु पात्रस्य कुण्ठितमुखत्वात् तान् निष्कासयितुं न शक्नोति स्म। बारंबारप्रयत्नेन अपि असफलः सः हतबुद्धिः अभवत्।
अस्यैव क्षणे योजनानुसारं गृहस्वामी आगत्य मर्कटस्य उपरि जालं क्षिप्त्वा तम् अबध्नात्।
शिक्षा:
अस्याः कथायाः शिक्षा अस्ति यत् —
लोभः मनुष्यस्य विवेकं हरति, अपि च कस्यापि अतिशयेन पीडनं न कर्तव्यम्।
~राजीव रंजन प्रभाकर:
Comments